|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.55. अध्यायः 055
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन धृतराष्ट्रंप्रति कृष्णादिभिः कुरुसमुच्छेदप्रतिज्ञापूर्वकपाण्डवसमाश्वासनश्रवणचकिताय स्वस्मै भीष्मादिभिरभयप्रदानकथनम् ॥ 1 ॥ तथा स्वपरपक्षयोः बलाबलनिरूपणपूर्वकं धृतराष्ट्रंप्रति समाश्वासनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-55-0(33906)
दुर्योधन उवाच। 5-55-0x(3562)
न भेतव्यं महाराज न शोच्या भवतां वयम्।
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो ॥ 5-55-1(33907)
वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ॥ 5-55-2(33908)
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षत।
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥ 5-55-3(33909)
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ॥ 5-55-4(33910)
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥ 5-55-5(33911)
प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः॥ 5-55-6(33912)
श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा।
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥ 5-55-7(33913)
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥ 5-55-8(33914)
ऋते च विदुरात्सर्वे यूयं वध्या मता मम।
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः॥ 5-55-9(33915)
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥ 5-55-10(33916)
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्।
प्राणान्वा संपरित्यज्य प्रतियुध्यामाहे परान् ॥ 5-55-11(33917)
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥ 5-55-12(33918)
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥ 5-55-13(33919)
प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ॥ 5-55-14(33920)
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्।
कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम ॥ 5-55-15(33921)
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥ 5-55-16(33922)
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत।
मत्वा मां महतीं चिन्तामास्थितंव्यथितेन्द्रियं ॥ 5-55-17(33923)
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप।
असमर्थाः परे जेतुमस्मान्युधि समास्थितान् ॥ 5-55-18(33924)
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥ 5-55-19(33925)
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः।
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत॥ 5-55-20(33926)
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्॥ 5-55-21(33927)
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे।
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥ 5-55-22(33928)
इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम्।
पुरा तेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ॥ 5-55-23(33929)
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥ 5-55-24(33930)
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ।
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ॥ 5-55-25(33931)
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप।
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम॥ 5-55-26(33932)
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्।
विलपन्तं बहुविधं भीतं परविकत्थने॥ 5-55-27(33933)
एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥ 5-55-28(33934)
जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात्।
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः ॥ 5-55-29(33935)
युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते।
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो ॥ 5-55-30(33936)
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ॥ 5-55-31(33937)
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन।
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥ 5-55-32(33938)
युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥ 5-55-33(33939)
दुर्योधनसमो नास्ति गदायामिति निश्चयः।
सङ्कर्षणस्य भवने यत्तदैनमुपावसम्। 5-55-34(33940)
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥ 5-55-35(33941)
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप।
स एवैनं नयोद्धोरः क्षिप्रं वैवस्वतक्षयम् ॥ 5-55-36(33942)
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम्।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥ 5-55-37(33943)
गदया निहतो ह्याजौ मया पार्थो वृकोदरः ।
विशीर्णगावः पृथिवीं परासुः प्रपतिष्यति ॥ 5-55-38(33944)
गदाप्रहाराभिहतो हिमवानपि पर्वतः।
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ॥ 5-55-39(33945)
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥ 5-55-40(33946)
तत्ते वृकोदरमयं भयं व्येतु महाहवे।
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥ 5-55-41(33947)
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥ 5-55-42(33948)
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः॥ 5-55-43(33949)
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्।
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥ 5-55-44(33950)
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम्।
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥ 5-55-45(33951)
शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः।
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्॥ 5-55-46(33952)
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत।
ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः ॥ 5-55-47(33953)
न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन।
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥ 5-55-48(33954)
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत।
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित् ॥ 5-55-49(33955)
कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि ।
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥ 5-55-50(33956)
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः ।
अश्वत्थाम्नो महारात स च शूरः स्थितो मम ॥ 5-55-51(33957)
सर्व एते महाराज देवकल्पा महारथाः।
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥ 5-55-52(33958)
नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम्।
सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ॥ 5-55-53(33959)
भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम।
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥ 5-55-54(33960)
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।
ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः ॥ 5-55-55(33961)
अमोघया महाराज शक्त्या परमभीमया।
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः॥ 5-55-56(33962)
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम्।
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः । 5-55-57(33963)
अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत।
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥ 5-55-58(33964)
संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप।
अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः ॥ 5-55-59(33965)
तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः।
पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम्॥ 5-55-60(33966)
भीमसेने च निहते कोऽन्यो युध्येत भारत।
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ॥ 5-55-61(33967)
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।
परेषां सप्त ये राजन्योधाः सारं बलं मतम् ॥ 5-55-62(33968)
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।
द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः ॥ 5-55-63(33969)
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः।
दुःशासनो दुर्मखश्च दुःसहश्च विशांपते॥ 5-55-64(33970)
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः।
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ॥ 5-55-65(33971)
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः।
न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥ 5-55-66(33972)
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥ 5-55-67(33973)
गुणहीनं परेषां च बहु पश्यामि भारत।
गुणोदयं बहुगुणमात्मनश्च विशांपते॥ 5-55-68(33974)
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥ 5-55-69(33975)
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत।
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥ ॥ 5-55-70(33976)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चपञ्चाशत्तशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-55-18 नः अस्माभिः परेचेत् यद्यपि अभिद्रुग्धाः द्रोहविषयं नीताः तथापि न भेतव्यम् ॥ 5-55-33 युक्तोऽभियोगवान्। दुःखोषित गुरुकुले ॥ 5-55-34 उपावसं शिध्यत्वेन पर्यचरम् । 5-55-59 हन्यामेति वदन्तीति शेषः ॥ 5-55-60 तान् संशप्तकान् अलं अर्जुनवधे पर्याप्ता इति मन्यन्ते ॥ 5-55-67 त्रिगुणतस्त्र्यंशेन हीनम् । त्रिगुणा त्र्यंशेनाधिका ॥ 5-55-70 विवित्सुः विज्ञातुमिच्छुः । प्राप्तकालानि कर्माणि ॥ 5-55- 5-55- 5-55- 5-55-

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|